Loading...
Interact, create, share, collaborate and learn on Library Junction.
Feb 24

संस्कृतं जगतः अतिप्राचीना समृद्घा शास्त्रीया च भाषा अस्ति। संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति। महर्षिपाणिनिरचिता "अष्‍टाध्‍यायी" जगतः सर्वासां भाषानां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं वर्तते। भारतीयभाषासु बहुलत्वेन संस्कृतशब्दाः उपयुज्यन्ते। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषाः उद्भूताः। तद्वदेव Indo-european भाषावर्गीयाः नैकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं वा प्रदर्शयन्ति।

संस्‍कृतभाषायाः सुरभारती, देववाणी, देवीवाक्‌, गीर्वाणवाणी, देवभाषा, अमरभारती इत्‍यादीनि बहूनि नामानि प्रसिद्धानि सन्‍ति ।

संस्कृते एकस्य धातोः रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येक-लकारे प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः इति त्रयः पुरुषाः सन्ति। अस्‍याः भाषायाः वैशिष्‍ट्‍यं नाम दंडचिन्हम्‌। न वर्तते अत्र अन्‍यानि विरामचिन्हानि केवलं दंडचिन्हमेव। एतदेव चिन्हम् विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान्‌ अर्थान्‌ प्राप्‍नुमः वयम्‌। उदाहरणार्थं वाक्‍यांशः एकः दीयते। अभ्‍युत्‍थानं च धर्मस्‍य नैव दृष्‍टं कदाचन इति एतस्‍य वाक्‍यस्‍य द्वौ अर्थौ स्‍त:॥

संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति।

इयं भाषा न केवलं भारतस्‍य अपितु विश्वस्य प्राचीनतमा भाषा मन्यते। इयं भाषा एतावती समृद्धा अस्ति प्राय: सर्वासु भारतीयभाषासु न्‍यूनाधिकरूपेण अस्‍या: शब्‍दा: प्रयुज्‍यन्‍ते. अत: भाषाविदां मते इयं सर्वासां भाषाणां जननी मन्‍यते। पुरा संस्कृतं लोकभाषा आसीत्‌। जना: संस्कृतेन वदन्ति स्म॥

विश्‍वस्‍य आदिम: ग्रन्‍थ: ऋग्‍वेद: संस्‍कृतभाषायामेवास्‍ति। अन्‍ये च वेदा: यथा यजुर्वेद:, सामवेद:, अथर्ववेदश्‍च संस्‍कृतभाषायामेव सन्‍ति। आयुर्वेद धनुर्वेद गन्‍धर्ववेदार्थवेदाख्‍या: चत्‍वार: उपवेदा: अपि संस्‍कृतेन एव विरचिता:॥


सर्वा: उपनिषद: संस्‍कृते उपनिबद्धाः । अन्‍ये ग्रन्‍था: - शिक्षा, कल्‍प, निरुक्त, ज्‍योतिष, छन्‍द, व्‍याकरण, वेदाङ्ग, दर्शन, इतिहास, पुराण, काव्‍य, शास्‍त्र: चेत्यादयः ॥

महर्षि-पाणिनिना विरचिता अष्‍टाध्‍यायी इति संस्‍कृतव्‍याकरणम्‌ अधुनापि भारते विदेशेषु च भाषाविज्ञानिनां प्रेरणास्‍थानं वर्तते ॥

वाक्यकारं वररुचिं भाष्यकारं पतंजलिम् | पाणिनिं सूत्रकारं च प्रणतोस्मि मुनित्रयम् ॥

संस्‍कृतलेखनस्‍य प्रतिरूपं सरस्‍वती लिपिः आसीत्‌| कालान्‍तरे एतस्‍य रूपं ब्राह्मी लिपिः बभूव| तत्‌ उत्तर: एतत्‌ रूपं देवनागरी लिपिः परिवर्तेत एतत्‌|

अन्‍य रूपान्‍तराणि अधस्‍तात्‌ सन्‍ति -- बांग्‍ला लिपि, शारदा लिपि, तेलुगु लिपि, तमिल लिपि, यव-द्वीप लिपि, कम्‍बोज लिपि, कन्‍नड लिपि, मलयाळम्‌ लिपि, गुजराती लिपि, आदि ॥

मूलतो यस्मिन् यस्मिन् प्रदेशे या लिपिर्जनैर्मातृभाषां लेखितुमुपयुज्यते तस्मिन्प्रदेशे तस्यामेव लिप्यां संस्कृतमपि लिख्यते। पूर्वं सर्वत्रैवैवमासीत्, अतएव प्राचीना हस्तलिखितग्रन्था अनेकासु लिपिषु लिखिता एव। अर्वाचीने काले तु संस्कृतग्रन्थानां मुद्रणं सामान्यतो नागरीलिप्यां घटते।

मलयाळम्‌, तमिळ्‌, तेलुगु, कन्नड इति इमा: चतस्र: दाक्षिणात्‍य-भाषा:संस्‍कृतेन भृशं प्रभाविता:।

राष्‍ट्रस्‍य एकताया अखण्‍डतायाश्‍च स्‍थापनायै संस्‍कृतमेव समर्थमस्‍ति यत: न केवलं अस्‍या: भाषाया एव शब्‍दा: मूलरूपेण सर्वासु भारतीयभाषासु लभ्‍यन्‍ते, अपितु सर्वत्र भारते भाषाणामेकताया: रक्षा अपि केवलं संस्‍कृतेनैव क्रियते||

अस्‍यां भाषायां न केवलं भारतस्‍य अपितु निखिलस्‍यापि संसारस्‍य मानवानां कृते हितसाधका: जीवनोपयोगिनस्‍य सिद्धान्‍ता: प्रतिष्‍ठापिता: सन्‍ति|इयमेव सा भाषा यत्र ध्‍वने: लिपेश्‍च सर्वत्रैकरूपता वर्तते||

Latest Activity

posted a new blog entry Elevating the Self: A Book on Values.
3 years ago
posted a new blog entry KV Pattom Library launches 'Read my Buddy'.
5 years ago
posted a new blog entry HARRYPOTTER ..................
6 years ago
posted a new blog entry Harry potter.
6 years ago
posted a new blog entry greetings.
6 years ago

Share

Powered by

Videos

LIKE SISTERS : Award winning short film on Child Marriage
KOMAL - A film on Child Sexual Abuse (CSA) - Hindi
Read my Buddy: Collaborative Peer Reading Programme (Project Highlights)

Events

There is no upcoming event!